एकाक्षरकोशः

Ekakshara Kosha - The Single-Letter Dictionary

A classical Sanskrit text that reveals the divine and philosophical meanings of individual letters and syllables in the Devanagari script, connecting each sound to cosmic principles and deities.

श्लोक १
अकारो वासुदेवः स्याद् आकारस्तु पितामहः
पूजायामपि माङ्गल्ये आकारश्च प्रकीर्तितः
श्लोक २
इकार उच्यते कामो लक्ष्मीः ईकार उच्यते
उकारः शङ्करः प्रोक्त ऊकारश्चापि लक्षणे
श्लोक ३
रक्षणे चापि ऊकार ऊकारो ब्रहणि स्मृतः
ऋकारो वेदमाता स्याद् ॠकारो दनुजप्रसूः
श्लोक ४
लृकारो देवजातीनां माता सद्भिः प्रकिर्तिता
ॡकारः स्मर्यते पूर्वैः जननी शब्दकोविदैः
श्लोक ५
एकार उच्यते विष्णुरैकारः स्यान्महेश्वरः
ओकारस्तु भवेद् ब्रह्मा औङ्कारोऽनन्त उच्यते
श्लोक ६
अं स्याच्च परं ब्रह्म अः स्याच्चैव महेश्वरः
कः प्रजापतिरुद्दिष्टः कोऽर्कवाय्वनलेषु च
श्लोक ७
कश्चात्मनि मयूरे च कः प्रकाश ऊदाहृतः
कं शिरोजलमाख्यातं कं सुखं च पकीर्तितम्ं
श्लोक ८
पृथिव्यां कुः समाख्यातः कुः शब्देऽपि प्रकीर्तितः
खमिन्द्रिये खमाकाशे खः स्वर्गेऽपि प्रकीर्तितः
श्लोक ९
सामान्ये च तथा शून्ये खशब्दः परिकीर्तितः
गो गणेशः समुद्दिष्टो गन्धर्वो गः प्रकीर्तितः
श्लोक १०
गं गीतं गा च गाथा स्याद् गौश्च धेनुः सरस्वती
घा घण्टा च समाख्याता घो घनश्च प्रकीर्तितः
❋ ❋ ❋
श्लोक ११
घो घण्टाहननेऽधर्मे घुर्घोणा घूः ध्वनावपि
ङकारो भैरवः ख्यातो ङकारो विषयस्पृहा
श्लोक १२
चश्चन्द्रमा समाख्यातो भास्करे तस्करे मतः
निर्मलं छं समाख्यातं तरले छः प्रकीर्तितः
श्लोक १३
छेदके छः समाख्यातो विद्वद्भिः शब्दकोविदैः
जकारो गायने प्रोक्तो जेमने जः प्रकीर्तितः
श्लोक १४
जेता जश्च प्रकथितः सूरिभिः शब्दशासने
रवो झकारः कथितो नष्टे झश्चोच्यते बुधैः
श्लोक १५
झकारश्च तथा वायौ नेपथ्ये समुदाहृतः
ञकारो गायने प्रोक्तो ञकारो झर्झरध्वनौ
श्लोक १६
टो धरित्र्याञ्च करके टो ध्वनौ च प्रकीर्तितः
ठकारो जनतायां स्याट्ठो ध्वनौ च शठेऽपि च
श्लोक १७
ठो महेशः समाख्यातष्ठश्च शून्ये प्रकीर्तितः
बृहद्ध्वनौ च ठः प्रोक्तः तथा चन्द्रस्य मण्डले
श्लोक १८
डकारः शङ्करे त्रासे ध्वनौ भीमे निरुच्यते
ढकारः कीर्तिता ढक्का निर्गुणे निर्धने मतः
श्लोक १९
णकारः सूकरे ज्ञाने निश्चये निर्णयेऽपि च
तकारः कीर्तितश्चौरे क्रोडपुच्छे प्रकीर्तितः
श्लोक २०
शिलोच्चये थकारः स्यात्थकारो नयरक्षणे
दकारोऽभ्रे कलत्रे च च्छेदे दाने च दातरि
❋ ❋ ❋
श्लोक २१
धं धने सधने धः स्याद्विधातरि मुनावपि
धिषणा धीः समाख्याता धूश्चैव भारवित्तयोः
श्लोक २२
नेता नश्च समाख्यातस्तरणौ नः प्रकीर्तितः
नकारः सौगते बुद्धौ स्तुतौ वृक्षे प्रकीर्तितः
श्लोक २३
नः शब्दः स्वागते बन्धौ वृक्षे सूर्ये च कीर्तितः
पः कुवेरः समाख्यातः पश्चिमे च प्रकीर्तितः
श्लोक २४
पवने पः समाख्यातः पः स्यात्पाने च पातरि
कफे वारे फकारः स्यात्तथाऽऽह्वाने प्रकीर्तितः
श्लोक २५
फूत्कारेऽपि च फः प्रोक्तः तथा निष्फलभाषणे
बकारो वरुणः प्रोक्तः कलशे बः फलेऽपि च
श्लोक २६
वक्षःस्थले च बः प्रोक्तो गदायां समुदाहृतः
नक्षत्रे भं बुधाः प्राहुः भवने भः प्रकीर्तितः
श्लोक २७
दीप्तिर्भा स्याच्च भूर्भुमिः भीर्भयं कथितं बुधैः
मः शिवश्चन्द्रमा वेधा मा लक्ष्मीश्च प्रकीर्तिता
श्लोक २८
मा च मातरि माने बन्धने मः प्रकीर्तितः
यशो यः कथितः प्राज्ञैः यो वायुरिति शब्दितः
श्लोक २९
याने यातरि यस्त्यागे कथितः शब्दवेधिभिः
रश्च रामेऽनिले वह्नौ भूमावपि धने पि च
श्लोक ३०
इन्द्रियेन्धनयोगे च रुर्भवे च प्रकीर्तितः
लो दीप्तौ द्यां लश्च भूमौ भये चाह्लादनेऽपि च
❋ ❋ ❋
श्लोक ३१
लो वाते लवणे च स्याल्लो दाने च प्रकीर्तितः
लः श्लेषे चाशये चैव प्रलये साधनेऽपि लः
श्लोक ३२
मानसे वरुणे चैव लकारः सान्त्वने ऽपि च
विश्च पक्षी निगदितो गगनं परिकीर्तितम्
श्लोक ३३
शं सुखं शङ्करः श्रेयः शश्च सीम्नि निगद्यते
शयने शः समाख्यातो हिंसायां शो निगद्यते
श्लोक ३४
षः कीर्तितो बुधैः श्रेष्ठे षश्च गम्भीरलोचने
उपसर्गे परोक्षे च षकारः परिकीर्तितः
श्लोक ३५
सः कोपे वरणे सः स्यात्तथा शूलिनि कीर्तितः
सा च लक्ष्मीः बुधैः प्रोक्ता गौरी सा च स ईश्वरः
श्लोक ३६
हः कोपे वारणे हश्च तथा शूली प्रकीर्तितः
हिः पद्मावरणे प्रोक्तो हिः स्याद्धेत्ववधारणे
श्लोक ३७
क्षः क्षेत्रे वक्षसि प्रोक्तो बुधैःक्षः शब्दशासने
क्षिः क्षेत्रे क्षत्ररक्षे च नृसिंहे च प्रकीर्तितः
श्लोक ३८
आगमेभ्योऽभिधानेभ्यो धातुभ्यः शब्दशासनात्
एवमेकाक्षरं नामाभिधानं रचितं मया